|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.203. अध्यायः 203
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कृष्णेन पुत्रार्थं कैलासे तपश्चरणम्॥ 1 ॥ तत्र कृष्णदर्शनाय नारदादीनामागमनम्॥ 2 ॥ कृष्णेन स्वमुखनिःसृताग्निना तत्पर्वतस्य भस्मीकरणम्॥ 3 ॥ तथा पुनः प्रसन्नदृष्ट्या गिरेरुज्जीवनम्॥ 4 ॥ तथा नारदादीन्प्रति तत्कारणकथनम्॥ 5 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
अयं नारायणः श्रीमान्पुत्रार्थे व्रतकाङ्क्षया।
दीक्षितोऽभून्महाबाहुः पुरा द्वादशवार्षिकम्॥ 13-203-1(89199)
दीक्षितं केशवं द्रष्टुमभिजग्मुर्महर्षयः।
सेवित्वा च महात्मानः प्रीयमाणं जनार्दनम्॥ 13-203-2(89200)
नारदः पर्वतश्चैव कृष्णद्वैपायनस्तथा।
देवलः काश्यपश्चैव हस्तिकाश्यप एव च।
जमदग्निश्च राजेन्द्र धौम्यो वाल्मीकिरेव च॥ 13-203-3(89201)
अपरेऽपि तपःसिद्धाः सत्यव्रतपरायणाः।
शिष्यैरनुगताः सर्वे ब्रह्मविद्भिरकल्मषैः॥ 13-203-4(89202)
केशवस्तानभिगतान्प्रीत्या सम्परिगृह्य च।
तेषामतिथिसत्कारं पूजनार्थं कुलोचितम्।
देवकीतनयो हृष्टो देवतुल्यमकल्पयत्॥ 13-203-5(89203)
उपविष्टेषु सर्वेषु विष्टरेषु तदाऽनघ।
विश्वस्तेष्व्नभितुष्टेषु केशवार्चनया पुनः॥ 13-203-6(89204)
परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः।
विष्णोर्नारायणस्यैव प्रसादात्कथयामि ताः॥ 13-203-7(89205)
तस्यैव व्रतचर्यायां मुनिभिर्विस्मितं पुरा।
यत्र गोवृषभाङ्कस्य प्रभावोऽभून्महात्मनः॥ 13-203-8(89206)
यत्र देवी महादेवमपृच्छत्संशयान्पुरा।
कथयामास सर्वांस्तान्देव्याः प्रियचिकीर्षया॥ 13-203-9(89207)
उमापत्योश्च संवादं शृणु तात मनोरमम्।
वर्णाश्रमाणां धर्मश्च तत्र तात समाहितः॥ 13-203-10(89208)
ऋषिधर्मश्च निखिलो राजधर्मस्च पुष्कलः।
गृहस्थधर्मश्च शुभः कर्मपाकफलानि च॥ 13-203-11(89209)
देवगुह्यं च विविधं दानधर्मविधिस्तथा।
विधानमत्र प्रोक्तं यद्यमस्य नियमस्य च॥ 13-203-12(89210)
यमलोकविधानं च स्वर्गलोकगतिस्तथा।
प्राणमोक्षविधिश्चैव तीर्थचर्या च पुष्कला॥ 13-203-13(89211)
मोक्षधर्मविधानं च साङ्ख्ययोगसमन्वितम्।
स्त्रीधर्मश्च स्वयं देव्या देवदेवाय भाषितः॥ 13-203-14(89212)
एवमादि शुभं सर्वं तत्र तात समाहितम्।
रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते॥ 13-203-15(89213)
धन्यं यशस्यमायुष्यं धर्म्यं च परमं हितम्।
पुष्टियोगमिमं दिव्यं कथ्यमानं मया शृणु॥ 13-203-16(89214)
इतिहासमिमं दिव्यं पवित्रं परमं शुभम्।
सायं प्रातः सदा सम्यक् श्रोतव्यं च बुभूषता॥ 13-203-17(89215)
भीष्म उवाच। 13-203-18x(7442)
ततो नारायणो देवः संक्लिष्टो व्रतचर्यया।
वह्निर्विनिःसृतो वक्त्रात्कृष्णस्याद्भुतदर्शनः॥ 13-203-18(89216)
अग्निना तेन महता निःसृतेन मुखाद्विभोः।
पश्यतामेव सर्वेषां दग्ध एव नगोत्तमः॥ 13-203-19(89217)
मृगपक्षिगणाकीर्णः श्वापदैरपि सङ्कुलः।
वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः॥ 13-203-20(89218)
पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा।
स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः॥ 13-203-21(89219)
सिद्धचारणसङ्घैश्च प्रसन्नैरुपशोभितः।
मत्तवारणसंयुक्तो नानापक्षिगणैर्युतः।
तदद्भुतमचिन्त्यं च सर्वेषामभवद्भृशम्॥ 13-203-22(89220)
तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास्तदा।
विस्तिताः परमायत्ताः साध्यसाकुललोचनाः।
न किञ्चिदब्रुवंस्तत्र शुभं वा यदि वेतरत्॥ 13-203-23(89221)
ततो नारायणो देवो मुनिसङ्घे तु विस्मिते।
तान्समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः॥ 13-203-24(89222)
किमर्थं मुनिसङ्घेऽस्मिन्विस्मयोऽयमनुत्तमः।
एतन्मे संशयं सर्वे याथातथ्येन नन्दिताः।
ऋषयो वक्तुमर्हन्ति निश्चयेनार्थकोविदाः॥ 13-203-25(89223)
केशवस्य वचः श्रुत्वा तुष्टुवुर्मुनिपुङ्गवाः।
भवान्सृजति वै लोकान्भवान्संहरति प्रजाः।
भवाञ्शीतं भवानुष्णं भवान्सत्यं भवान्क्रतुः॥ 13-203-26(89224)
भवानादिर्भवानन्तो भवतोऽन्यन्न विद्यते।
स्थावरं जङ्गमं सर्वं त्वमेव पुरुषोत्तम॥ 13-203-27(89225)
त्वत्तः सर्वमिदं तात लोकचक्रं प्रवर्तते।
त्वमेवार्हसि तद्वक्तुं मुखादग्निविनिर्गमम्॥ 13-203-28(89226)
एतन्नो विस्मयकरं बभूव मधुसूदन।
ततो विगतसंत्रासा भवाम पुरुषोत्तम।
यदिच्छेत्तत्र वक्तव्यं कुतोऽस्माकं नियोगतः॥ 13-203-29(89227)
श्रीभगवानुवाच। 13-203-30x(7443)
नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः।
तस्माल्लोकहितं गुह्यं श्रूयतां कथयामि वः॥ 13-203-30(89228)
असुरः साम्प्रतं कश्चिदहितो लोकनाशनः।
मायास्त्रकुशलश्चैव बलदर्पसमन्वितः॥ 13-203-31(89229)
बभूव स मया बद्धो लोकानां हितकाम्यया।
पुत्रेण मे वधो दृष्टस्तस्य वै मुनिपुङ्गवाः॥ 13-203-32(89230)
तदर्थं पुत्रमेवाहं सिसृक्षुर्वनमागतः।
आत्मनः सदृशं पुत्रमहं जनयितुं व्रतैः॥ 13-203-33(89231)
एवं व्रतपरीतस्य तपस्तीव्रतया मम।
अथात्मा मम देहस्थः सोग्निर्भूत्वा विनिःसृतः॥ 13-203-34(89232)
विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम्।
ब्रह्मणा मन्मथोऽनङ्गः पुत्रत्वेन प्रकल्पितः।
अनुज्ञातश्च तेनैव पुनरायान्ममान्तिकम्॥ 13-203-35(89233)
एवं मे वैष्णवं तेजो मम वक्त्राद्विनिःसृतम्।
तत्तेजसा निर्मथितः पुरतोऽयं गिरिः स्थितः॥ 13-203-36(89234)
दृष्ट्वा दाहं गिरेस्तस्य सौम्यभावतया मम।
पुनः स दृष्टमात्रेण गिरिरासीद्यथा पुरा॥ 13-203-37(89235)
एतद्गुह्यं यथातथ्यं कथितं वः समासतः।
भवन्तो व्यथिता येन विस्मिताश्च तपोधनाः॥ 13-203-38(89236)
ऋषीणामेवमुक्त्वा तु तान्पुनः प्रत्यभाषत॥ ॥ 13-203-39(89237)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यधिकद्विशततमोऽध्यायः॥ 203 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|